सामग्री पर जाएँ

पूर्व्वपक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्व्वपक्षः, पुं, (पूर्व्वः पक्षः ।) शुक्लपक्षः । इत्य- मरः ॥ (यथा, मनुः । ३ । २७८ । “यथा चैवापरः पक्षः पूर्ब्बपक्षाद्विशिष्यते ॥”) शास्त्रीयप्रश्नः । सिद्धान्तविरुद्धकोटिः । तत्- पर्य्यायः । चोद्यम् २ । इति त्रिकाण्डशेषः ॥ देश्यम् ३ फक्किका ४ । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । १ । ३ । “पूर्ब्बपक्षोक्तिसिद्धान्तपरिनिष्ठासमान्वतम् ॥” अधिकरणावयवभेदो व्यवहारविशेषः । यथा, याज्ञवल्क्ये । २ । १७ । “पूर्ब्बपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पूर्व्वपक्षः&oldid=149947" इत्यस्माद् प्रतिप्राप्तम्