पूर्व्वपक्षपाद
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वपक्षपादः, पुं, (पूर्व्वपक्ष एव पादः ।) चतु- ष्पादव्यवहारान्तर्गतः प्रथमः पादः । तस्य संज्ञान्तरम् । भाषा २ प्रतिज्ञा ३ पक्षः ४ । इति मिताक्षरा ॥ तत्र बृहस्पतिः । “पूर्ब्बपक्षः स्मृतः पादो द्विपादश्चोत्तरः स्मृतः । क्रियापादस्तथा चान्यश्चतुर्थो निर्णयः स्मृतः ॥ मिथ्योक्तौ च चतुष्पात् स्यात् प्रत्यवस्कन्दने तथा । प्राङ्न्याये च स विज्ञेयो द्विपात् संप्रतिपत्तिषु ॥” यद्यपि संप्रतिपत्तावपि निर्णयोऽस्ति तथाप्युत्तर- वादिनैव भाषार्थस्याङ्गीकृतत्वेन क्रियासाध्यो न भवतीति द्विपादतोक्ता ॥ * ॥ अथ भाषापादः । तत्र भाषास्वरूपमाहतुः कात्यायनबृहस्पती । “प्रतिज्ञादोषनिर्मुक्तं साध्य सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥ स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः । विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥ यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना । दद्यात्तत्पक्षसम्बद्धं प्रतिवादी तदोत्तरम् ॥” प्रतिज्ञा साध्याभिधायिका वाक् । तस्या दोषैः परस्परविरुद्धार्थपदादिभिस्त्यक्तम् । साध्यं साधनार्हाभिमतार्थं पक्षं विदुः । अन्यथा प्रतिज्ञादोषेण साध्यदोषः स्यात् । अतएवोक्तम् । “वचनस्य प्रतिज्ञात्वं तदर्थस्य च पक्षता । असङ्करेण वक्तव्ये व्यवहारषु वादिभिः ॥” वक्तव्ये पक्षप्रतिज्ञे पूर्ब्बोक्ते । नारदेनापि । “सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥” उत्तरो विजयी यद्यप्यन्यत्र साध्यं ज्ञाप्यं तद्वि- शिष्टधर्म्मी पक्ष इति भेदः । तथाप्यत्र वाक्- प्रत्याय्यर्णादिधर्म्मविशेषविशिष्टस्य पक्षतया धर्म्मिणोऽधमर्णादेरेव साध्यत्वात् साध्यपक्षयोर- भेदाभिधानम् । अतएव उपसंहारे च एवंविधः पक्ष इति मिताक्षरायान्तु भाषा प्रतिज्ञापक्ष इति नार्थान्तरमित्युक्तम् । भाषार्थमुक्त्वा भाषा- स्वरूपप्रपञ्चमाह स्वल्पाक्षर इति । निराकुलः पौर्ब्बापर्य्यविपर्य्यासादिशून्यः । “अत्र द्यूते च व्यवहारे च प्रव्रते यज्ञकर्म्मणि । यानि पश्यन्त्युदासीनाः कर्त्ता तानि न पश्यति ॥” इति गृह्यसंग्रहवचनादुदासीनेभ्यो ज्ञात्वा शोघ- येत् । तच्छोधनमाह बृहस्पतिः । “न्यूनाधिकं पूर्ब्बपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” तल्लिखनप्रकारमाह व्यासः । “पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् । ऊनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥” फलकं काष्ठादिपट्टकम् । कात्यायनः । “पूर्ब्बपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् । पाण्डुलेख्येन फलके ततः पत्रेऽभिलेखयेत् ॥ शोधयेत् पूर्ब्बपक्षन्तु यावन्नोत्तरदर्शनम् । उत्त्ररेणावरुद्धस्य निवृत्तिः शोधनं भवेत् ॥ अन्यदुक्तं लिखेद्योऽन्यदर्थिप्रत्यर्थिनोर्वचः । चौरवच्छासयेत्तन्तु घार्म्मिकः पृथिवीपतिः ॥” स्वभावोक्तमकृत्रिमम् । एतच्च स्वरविशेषादिना सुज्ञेयम् । अतएव याज्ञवल्क्यः । “छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥” भूतं तत्त्वार्थसम्बद्धम् । यदाह नारदः । “भूतं तत्त्वार्थं सम्बद्धं प्रमादाभिहितं छलम् । किन्तु राज्ञा विशेषेण स्वधर्म्ममभिरक्षता ॥ मनुष्यचित्तवैचित्र्यात् परीक्ष्या साध्वसाधुता । सर्व्वेष्वर्थविवादेषु वाक्छलेनावसीदति ॥ पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥” सर्व्वेषु अर्थविवादेषु प्रमादाभिधानेऽपि नावसी- दति । अत्रोदाहरणं पशुस्त्रीत्यादि । अर्थविवाद- ग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने प्रकृ- तार्थाद्धीयत इति गम्यते । यथाहमनेन शिरसि पादेन ताडित इत्यभिधाय केवलं हस्तेन ताडित इति वदन् न केवलं दण्ड्यः पराजीयते च । तथा च त्वं शतं मह्यं ऋणं धारयसि मत्त ऋण- त्वेन गृहीततावद्धनकत्वादित्यादि भाषाशरीरं एतच्च संस्कृतदेशभाषान्यतरेण यथाबोधं वक्तव्यं लेख्यं वा मूर्खाणामपि वादिप्रतिवादित्वदर्श- नात् । अतएवाध्यापनेऽपि तथोक्तम् । विष्णु- धर्म्मोत्तरे । “संस्कृतैः प्राकृतैर्व्वाक्ययः शिष्यमनुरूपतः । देशभाषाद्युपायाद्यैर्बोधयेत् स गुरुः स्मृतः ॥” इति व्यवहारतत्त्वम् ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वपक्षपाद¦ m. (-दः) The first division of legal proceeding, the plaint. E. पूर्व्वपक्ष, and पाद quarter.
