पूर्व्वभद्रपदः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वभद्रपदः, पुं, अश्विन्यादिसप्तविंशतिनक्ष त्रान्तर्गतपञ्चविंशनक्षत्रम् । तत्पर्य्यायः । प्रोष्ठपदाः २ । इत्यमरः ॥ “द्वे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु । प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसां तास्तथा । ग्रहपतिरिव भद्रपादानुगतो राजे- त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिः भाद्रपदाशब्दोदीर्घादिरपीतिकचित् । दीर्घादि- पाठः प्रामादिक इति मुकुटादयः ॥ पूर्ब्बे प्रोष्ठ- पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासां चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ- पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात् द्विवचनम् । फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वे च भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तः काल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इति केचित् ।” इति तट्टीकायां भरतः ॥ * ॥
