पूर्व्वभाद्रपदा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वभाद्रपदाः, स्त्री, अश्विन्यादिसप्तविंशतिनक्ष त्रान्तर्गतपञ्चविंशनक्षत्रम् । तत्पर्य्यायः । प्रोष्ठपदाः २ । इत्यमरः ॥ “द्वे पूर्ब्बभाद्रपदोत्तरभाद्रपदासु । प्रोष्ठो गौः भद्रश्च गौः तस्येव याद आसां तास्तथा । ग्रहपतिरिव भद्रपादानुगतो राजे- त्याश्चर्य्यमञ्जरी श्लेषाद्भद्रपदाशब्दो ह्रस्वादिः भाद्रपदाशब्दोदीर्घादिरपीतिकेचित् । दीर्घादि- पाठः प्रामादिक इति मुकुटादयः ॥ पूर्ब्बे प्रोष्ठ- पदे द्वे उत्तरे तु भद्रपदे द्वे समुदायश्चासां चतुःसंख्य इति बहुवचनम् । कदा पूर्ब्बे प्रोष्ठ- पदे कदा उत्तरे प्रोष्ठपदे इति तारकयोर्द्वित्वात् द्विवचनम् । फल्गुनीप्रोष्ठपदाशब्दो द्वित्वे बहुत्वे च भद्रपदा द्वेऽपीति केचित् भद्रपदेन युक्तः काल इति प्रयोगात् पुंलिङ्गोऽपि भद्रपद इति केचित् ।” इति तट्टीकायां भरतः ॥ * ॥ तां तु दक्षिणोत्तरवर्त्तिखट्वाकृतितारकाद्वया- त्मिकाः । भाराकृतिताराद्वयरूपा वा । तदधि- देवता अजपादः आसां जघन्यगुणः । इति ज्योतिषम् ॥ अपि च । “भारमूर्त्तिभृतिकोपरिस्थिते पूर्ब्बभाद्रपदभे द्वितारके । लिप्तिकाः करिकराक्षि २२८ संमिता निःसरन्ति वृषभोदयात् प्रिये ! ॥” द० ३ । ४८ । इति कालिदासकृतरात्रिलग्न- निरूपणम् ॥ * ॥ तत्र जातफलम् । “जितेन्द्रियः सर्व्वकलासु दक्षो जितारिपक्षः खलु तस्य नित्यम् । भवेन्महीयान् सुतरामपूर्ब्बा पूर्ब्बा यदा भाद्रपदा प्रसूतौ ॥” इति कोष्ठीप्रदीपः ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वभाद्रपदा¦ f. (-दा) The first of the two lunar asterisms, called Bha4dra- pada4, and twenty-sixth, of the whole, containing two stars. E. पूर्व्व first, भाद्रपदा the asterism so named; it is also read पूर्व्वभद्रपदा |
