सामग्री पर जाएँ

पूर्व्वरङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्व्वरङ्गः, पुं, (पूर्व्वं रज्यतेऽस्मिन्निति । रञ्ज + अधिकरणे घञ् ।) नाट्योपक्रमः । इति हेम- चन्द्रः । २ । १९६ ॥ तत्पर्य्यायः । प्राक्संगीतम् २ गुणनिका ३ । इति जटाधरः ॥ (अस्य लक्षणं यथा, साहित्यदर्पणे । ६ । १० । “यन्नाट्यवस्तुनः पूर्ब्बं रङ्गविघ्नोपशान्तये । कुशीलवाः प्रकुर्व्वन्ति पूर्ब्बरङ्गः स उच्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=पूर्व्वरङ्गः&oldid=149966" इत्यस्माद् प्रतिप्राप्तम्