सामग्री पर जाएँ

पूर्व्वरूपम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पूर्व्वरूपम्, क्ली, (पूर्व्वं रूपमिति कर्म्मधारयः ।) पूर्ब्बलक्षणम् । वैद्यके भाविव्याधिबोधकचिह्रम् । यथा, -- “--प्राग्रूपं येन लक्ष्यते । उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः । लिङ्गमव्यक्तमल्पत्वाद्व्याधीनां तद्यथायथम् ॥” द्विविधं हि पूर्ब्बरूपं भवति । सामान्यं विशि- ष्टञ्च । सामान्यं येन दोषदूष्यसंमूर्च्छनावस्था- जनितेन भाविज्वरादिव्याधिमात्रं प्रतीयते न तु वातादिजनितत्वादिविशेषः । यथा । श्रमो रतिर्विवर्णत्वमिति । तथा बालगुरुवाक्यप्रद्वे- ऽषादि । सामान्याभिप्रायेणैव तन्त्रान्तरं यथा । व्याधेर्जातिर्व्वुभूषा च पूर्ब्बरूपेण लक्ष्यते । भावः किमात्मकत्वञ्च लक्ष्यते लक्षणेन तु इति ॥ तथाह पराशरः । पूर्ब्बरूपं नाम येन भावि- व्याधिविशेषो लक्ष्यते न तु दोषविशेष इति । विशिष्टं यथा । उरःक्षतादौ लिङ्गान्येव वाता- दिजान्यव्यक्तानि । यदुक्तं तत्रैव । अव्यक्तं लक्षणं तेषां पूर्ब्बरूपमिति स्मृतमिति । तथाह सुश्रुतः । सामान्यतो विशेषात्तु जृम्भात्यर्थं समीरणात् । पित्तान्नयनयोर्द्दाहः कफान्नान्नाभिनन्दनमिति ॥ हारीतेऽप्युक्तम् । इति पूर्ब्बरूपमष्टानां ज्वराणां सामान्यतो विशेषात्तु जृम्भाङ्गमर्द्दभूयिष्ठं हृद- योद्वेगि वातजमिति । प्राग्रूपं येन लक्ष्यते इत्य- स्यार्थमाह रक्षितः । येन श्रमादिना उत्पित्सुः सामग्रीसाकल्यादुत्पादेच्छरामयो रोगः दोष- विशेषेण वातादिजन्यासाधारणवेपथ्वादिना अन- धिष्ठितोऽसम्बद्धो लक्ष्यते ज्ञायते तत्प्राग्रूपमिति । लिङ्गमव्यक्तमल्पत्वादित्यस्यार्थमाह स एव । प्राग्रूपमित्यनेन पूर्ब्बोक्तेन सम्बन्धः लिङ्गं लक्ष- णम् अव्यक्तं नात्यभिव्यक्तं तत्र हेतुरल्पत्वात् न त्वावरणादियोगादव्यक्तत्वमित्यर्थः यथायथं यस्य व्याधेर्यद्रूपं तदेवाव्यक्तं तस्य पूर्ब्बमित्यर्थः । अन्ये तु पूर्ब्बरूपलक्षणमाहुः । स्थानसंश्रयिणः क्रुद्धा भाविव्याधिप्रबोधकम् । दोषाः कुर्व्वन्ति यल्लिङ्गं पूर्ब्बरूपं तदुच्यते ॥ इति ॥ संक्षेपतस्तु लक्षणं भाविव्याधिबोधकमेव लिङ्गं पूर्ब्बरूपम् ।” इति माघवकरविजयरक्षितौ ॥

"https://sa.wiktionary.org/w/index.php?title=पूर्व्वरूपम्&oldid=149972" इत्यस्माद् प्रतिप्राप्तम्