पूर्व्ववादः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्ववादः, पुं, (पूर्व्वो वादः ।) व्यवहारे राजादि- समीपे प्रागावेदनम् । यथा, -- “पूर्ब्बवादम्परित्यज्य योऽन्यमालम्बते पुनः । पदसंक्रामणाज्ज्ञेयो हीनवादी स वै नरः ॥” इति मिताक्षरा ॥
