पूर्व्वा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वा, स्त्री, (पूर्व्व + टाप् ।) पूर्व्वदिक् । तत्- पर्य्यायः । प्राची २ पुरा ३ माघोनी ४ ऐन्द्री ५ माघवती ६ । तद्दिग्भववायुगुणाः । “पूर्ब्बस्तु मधुरो वातः स्निग्धः कटुरसान्वितः । गुरुर्विदाहशमनो वातदः पित्तनाशनः ॥” इति राजनिर्घण्टः ॥ अपि च । राजवल्लभः । “प्राग्वातो मधुरः क्षारो वह्निमान्द्यकरो गुरुः । वैरस्यगोरवौष्ण्यानि करोत्यप्स्वोषधीषु च ॥ भग्नोत्पिष्टक्षताद्येषु रागश्वयथुदाहकृत् । सन्निपातज्वरश्वासत्वग्दोषार्शोविषक्रिमीन् ॥ कोपयेदामवातञ्च घनसंघातकारणम् ॥” ॥ * ॥ तद्दिगधिपतयः मेषसिंहधनूराशयः । यथा, -- “प्रागादिककुभां नाथा यथासंख्यं प्रदक्षिणम् । मेषाद्या राशयो ज्ञेयास्त्रिरावृत्तिपरिभ्रमात् ॥ इति ज्योतिस्तत्त्वम् ॥
पूर्व्वाः, पुं, पूर्व्वजाः । पूर्व्वपुरुषाः । बहुवचनान्तो- ऽयम् । इत्यमरः । ३ । ३ । १३३ ॥ (यथा, रधुः । १ । ६७ । “मत्परं दुर्लभं मत्वा नूनमावर्ज्जितं मया । पयः पूर्ब्बैः स्वनिश्वासैः कवोष्णमुपभुज्यते ॥”)
