पूर्व्वाह्णः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वाह्णः, पुं, (अह्रः पूर्व्वम् । पूर्व्वापराधरेत्येक- देशिसमासः । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् । “अह्वोऽह्र एतेभ्यः ।” ५ । ४ । ८८ । इति अह्रादेशः । “अह्नोऽ- दन्तात् ।” ८ । ४ । ७ । इति णत्वम् । “रात्रा- ह्राहाः पुंसि ।” २ । ४ । २९ । इति पुंस्त्वम् ।) त्रिधाविभक्तदिनप्रथमभागः । स च त्रिंशद्दण्ड- दिनमाने सूर्य्योदयावधिदशदण्डकालः । यथा, पूर्ब्बाह्णो वै देवानां मध्यन्दिनं मनुष्याणा- मपराह्णः पितॄणाम् । इति श्रुतिः ॥ अपि च । त्रिधाविभक्तदिनभागाभिप्रायेण तु लोकाक्षिः । “पूर्ब्बाह्णे मध्यमे वापि यदि पर्व्व समाप्यते । तदोपवासः पूर्ब्बेद्युस्तदहर्याग इष्यते ॥ अपराह्णेऽथवा रात्रौ यदि पर्व्व समाप्यते । उपोष्य तस्मिन्नहनि श्वोभूते याग इष्यते ॥” उपोष्येति नाहोरात्राभोजनपरं किन्तु कृते अग्न्याधाने देवा यजमानस्य समीपमुपवसन्तीति उपवासशब्देनाग्न्याधानमुच्यते । सूर्य्योदयाव- धिप्रहरद्वयम् । द्विधाविभक्तदिनपूर्ब्बभागः । यथा । पूर्ब्बाह्णापराह्णरूपद्विधाविभक्तदिनस्या- वधित्वेनावर्त्तनमाह स्कन्दपुराणम् । “आवर्त्तनात्तु पूर्ब्बाह्णो ह्यपराह्णस्ततः परः ॥” आवर्त्तनात् वासरस्य छायापरिवर्त्तनात् प्रागि- तिशेषः अतएवोक्तम् । “अश्वत्थं वन्दयेन्नित्यं पूर्ब्बाह्णे प्रहरद्वये । अत ऊर्द्धं न वन्देत अश्वत्थन्तु कदाचन ॥” इति मलमासतत्त्वम् ॥
