पूर्व्वेद्युः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पूर्व्वेद्युः, [स्] व्य, (पूर्व्वस्मिन्नहनीति । पूर्व्व + “सद्यःपरुत्परायैषमः परेद्यव्यद्यपूर्ब्बेद्युरन्येद्यु- रिति ।” ५ । ३ । २२ । इत्येद्युस्प्रत्ययो निपात्यते ।) पूर्ब्बदिनम् । इत्यमरः । ३ । ४ । २१ ॥ प्रातःकालः । धर्म्मवासरः । इति मेदिनी । अव्ययसे, ८४ ॥ (यथा, मनौ । ३ । १८७ । “पूर्ब्बेद्युरपरेद्युर्वा श्राद्धकर्म्मण्युपस्थिते । निमन्त्रयेत त्र्यवरान् सम्यगविप्रान् यथोदि- तान् ॥”)
