पृच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पृच, ई ल ङ सम्पर्के । इति कविकल्पद्रुमः ॥ (अदा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।) ई, पृक्तः । ल ङ, पृक्ते । परीपृच्यते । स चेह सम्पृक्तीभावः । सम्पृक्ते नाभिशस्तैर्य इति हला- युधः । सम्पृक्ते मधुना चूर्णं भिषगिति तु अन्त- र्भूतञ्यर्थत्वादिति चतुर्भुजः । इति दुर्गादासः ॥
पृच, कि संयमने । सम्पर्के । इति कविकल्पद्रुमः ॥ (चुरा० पक्षे भ्वा०-पर०-सक० सेट् ।) संयमनं बन्धनम् । कि, पर्च्चयति पर्च्चति दुष्टं राजा । इति दुर्गादासः ॥
पृच, ध ई सम्पर्के । इति कविकल्पद्रुमः ॥ (रुधा०- पर०-सक०-अक० च-सेट् । निष्ठायामनिट् ।) सम्पके इह संपृक्तीकरणं सम्पृक्तीभावश्च । ध, पृणक्ति धनुषा बाणम् । संपृणक्ति न पापिभिर्य इति हलायुधः । ई, पृक्तः । पपर्च्च । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पृच¦ सम्पर्के अदा॰ आत्म॰ अक॰ सेट्। पृक्ते अपर्चिष्ट। पपुचे ईदित्। पृक्णः।
पृच¦ संयमने सक॰ सम्पर्के अक॰ चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सेट्। पचंयति--ते पर्चति। अपीपृचत्--त अपपर्चत्--त अप-र्चीत्।
