सामग्री पर जाएँ

पृथक्त्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्त्वम्, क्ली, (पृथगित्यस्य भावः । पृथक् + भावे त्व ।) चतुर्व्विंशतिगुणान्तर्गतसप्तमगुणः । तस्य लक्षणम् । पृथक्प्रत्ययासाधारणकारणत्वम् । यथा, भाषापरिच्छेदे । “संख्यावच्च पृथक्त्वं स्यात् पृथक्प्रत्ययकारणम् । अन्योन्याभावतो नास्य चरितार्थत्वमुच्यते ॥ अस्मात् पृथगियं नेति प्रतीतिर्हि विलक्षणा ॥” “पृथक्त्वं निरूपयति संख्यावदिति पृथक्प्रत्यया- साधारणकारणं पृथक्त्वम् । तन्नित्यतादिकं संख्यावत् यथा हि नित्येषु एकत्वं नित्यं अनित्ये अनित्यम् आश्रयद्वितीयक्षणे चोत्पद्यते आश्रय- नाशान्नश्यति तथा एकपृथक्त्वमपि द्वित्वादिवत् द्विपृथक्त्वादिकमपीत्यर्थः ।” इति सिद्धान्तमुक्ता- वली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्त्वम् [pṛthaktvam], 1 Separateness, severalty.

Individuality. -Comp. -निवेशः Subsistence on separateness; पृथक्त्व- निवेशात् संख्यया कर्मभेदः स्यात् and also संख्यायाश्च पृथक्त्व- निवेशात् Ms.1.5.17; यावति संभवति तावति पृथक्त्वनिवेश एव युक्तः ŚB. on MS.5.3.2. Hence पृथक्त्वनिवेशिन्. It is considered to be a characteristic feature of संख्या; ŚB. on MS.5.3.2. पृथक्त्वेन (Intr. used as adv.) Individually, separately; यथा लोके पृथक्त्वेनापि कुर्वाणानां बहुवचनं दृश्यते, देवश्चेद् वर्षेद् बहवः कृषिं कुर्युः ŚB. on MS.1.6.45.

"https://sa.wiktionary.org/w/index.php?title=पृथक्त्वम्&oldid=320103" इत्यस्माद् प्रतिप्राप्तम्