सामग्री पर जाएँ

पृथक्पर्णी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्पर्णी, स्त्री, (पृथक् पर्णानि यस्याः । “पाक- कर्णपर्णपुष्पफलेति ।” ४ । १ । ६४ । इति ङीष् ।) क्षद्रवृक्षविशेषः । चाकुल्या इति भाषा ॥ तत्- पर्य्यायः । पृश्निपर्णी २ चित्रपर्णी ३ अङ्घ्रि- वल्लिका ४ । इत्यमरः । २ । ४ । ९२ ॥ (यथा, सुश्रुते । १ । ३६ । “पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता । काकोल्यादिश्च योज्यः स्यात्प्रशस्तो रोपणे घृते ॥” पर्य्यायान्तरमस्या यथा, वैद्यकरत्नमालायाम् । “पृश्निपर्णी पृथक्पर्णी लाङ्गुली क्रोष्टुपुच्छिका । धावनिः कलशी तन्वी गूहाक्रोष्टुकमेखला ॥ दीर्घा शृगालविन्नासा श्रीपर्णी सिं हपुच्छिका । दीर्घपत्रा त्वतिलुहा घृतिला चित्रपर्णिका ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्पर्णी स्त्री।

सिंहिपुच्छी

समानार्थक:पृश्निपर्णी,पृथक्पर्णी,चित्रपर्णी,अङ्घ्रिवल्लिका,क्रोष्टुविन्ना,सिंहपुच्छी,कलशी,धावनी,गुहा

2।4।92।2।2

रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा। पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्पर्णी¦ स्त्री पृथक् पर्णान्यस्याः ङीप्। (चाकुलिया)क्षुपभेदे अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्पर्णी¦ f. (-र्णीं) A plant, (Hemionites cordifolia Rox.) E. पृथक् separate, पर्ण a leaf, aff. ङीप् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथक्पर्णी/ पृथक्--पर्णी f. id. L.

पृथक्पर्णी/ पृथक्--पर्णी f. Hemionitis Cordifolia Car. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पृथक्पर्णी&oldid=320134" इत्यस्माद् प्रतिप्राप्तम्