पृथिवीगीता
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पृथिवीगीता, स्त्री, (पृथिव्या गीता ।) पृथिवी- कथा । यथा, -- “मैत्रेय ! पृथिवीगीताः श्लोकाश्चात्र निबोध तान् । यानाह धर्म्मध्वनिने जनकायासितो मुनिः ॥ श्रीपृथिव्युवाच । कथमेष नरेन्द्राणां मोहो बुद्धिमतामपि । येन केन सधर्म्माणोऽप्यतिविश्वस्तचेतसः ॥ पूर्ब्बमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः । ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् । इत्यासक्तधियो मृत्युं न पश्यन्त्यविदूरगम् ॥ समुद्रावरणं याति मन्मण्डलमथो वशम् । कियदात्मजयादेतन्मुक्तिरात्मजये फलम् ॥ उत्सृज्य पूर्ब्बे यां याता यां नादाय गतः पिता । तां मामतिविमूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ मत्कृते पितृपुत्त्राणां भ्रातॄणाञ्चापि विग्रहाः । जायन्तेऽत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ पृथ्वी ममेयं सकला ममेयं ममेति चैषा मम शाश्वतेयम् । यो यो मृतेऽन्यत्र बभूव राजा कुबुद्धिरासीद्रिति तस्य तस्य ॥ दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युपथं व्रजन्तम् । तस्यान्वयस्तत्र कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ पृथ्वी ममैषाशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् । नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ श्रीपराशर उवाच । इत्येते धरणीगीताः श्लोका मैत्रेय यैः श्रुताः । ममत्वं विलयं याति तापन्यस्तं यथा हिमम् ॥” इति विष्णुपुराणे ४ अंशे २४ अध्यायः ॥
