पृथिवीपतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पृथिवीपतिः, पुं, (पृथिव्याः पतिः ।) राजा । (यथा, मनुः । ७ । १७७ । “सर्व्वोपायैस्तथा कुर्य्यात् नीतिज्ञः पृथिवीपतिः । यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥”) ऋषभनामौषधिः । इति मेदिनी । ते, २३१ ॥ यमः । इति हेमचन्द्रः ॥
