सामग्री पर जाएँ

पृथुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथुः, पुं, (प्रथते विख्यातो भवतीति । प्रथ + “प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च । उणा० १ । २९ । इति कुः सम्प्रसारणञ्च ।) त्रेतायुगे सूर्य्यवशीयपञ्चमनृपः । वेणनृपस्य दक्षिणकरमथनाज्जातः । प्रजारञ्जनात् आद्ये राजापाधिं प्राप्तः । यथा, -- “अथ ते ऋषयः सर्व्वे प्रसन्नमनसस्ततः । गतकल्मषमेवं तं जातं वेणं नृपोत्तमम् ॥ ममन्थुर्दक्षिणं पाणिं तस्यैव च महात्मनः । मथिते तस्य पाणौ च सञ्जातं स्वेदमेव हि ॥ पुनर्ममन्थुस्ते विप्रा दक्षिणं पाणिमेव च । स्वकरात् पुरुषो जज्ञे द्वादशादित्यसन्निभः ॥ तप्तकाञ्चवर्णाङ्गो दिव्यमाल्याम्बरावृतः । दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ शिखण्डी च हविर्द्धानमन्तर्द्धानाद्व्यजायत ॥” अरेणाभूराज्ञः पुत्त्रः । यथा, अग्निपुराणे । “अयोधस्तस्य पुत्त्रोऽभूत् ककुत्स्थो नाम वीर्य्य- वान् । ककुत्स्थस्य अरेणाभूस्तस्य पुत्त्रः पृथुः स्मृतः ॥” अग्निः । इति मेदिनी । थे, १० ॥ (प्रियव्रत- वंशोद्भवस्य विभोः पुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ३८ । “भुवस्तस्मात् तथोद्गीथः प्रस्तारस्तत्सुतो विभुः । पृथुस्ततोऽभवन्नक्तो नक्तस्यापि गयः सुतः ॥” तामसमन्वन्तरे ऋषिविशेषः । यथा, मार्कण्डेये । ७४ । ५९ । “ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥”)

पृथुः, स्त्री, (प्रथते विस्तारमेतीति । प्रथ + कुः सम्प्रसारणञ्च ।) कृष्णजीरकः । इत्यमरः । २ । ९ । ३७ ॥ (एतत्पर्य्यायो यथा, -- “कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः । कालाजाजी तु सुषवी कालिका चोपकालिका ॥ पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका । उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) त्वक्पर्णी । हिङ्गुपत्री । इति मेदिनी । थे, १० ॥ (पर्य्यायोऽस्या यथा, -- “हिङ्गुपत्री तु कवरी पृथ्विका पृथुका पृथुः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अहिफेनः । इति शब्दरत्नावली ॥

पृथुः, त्रि, (प्रथ + कुः सम्प्रसारणञ्च ।) महत् । इत्यमरः । ३ । १ । ६० ॥ (यथा, आर्य्यासप्त- शत्याम् । ११७ । “उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि- राङ्गि ! । अचला अपि न महान्तः के चञ्चलभाव- मानीताः ॥”) निपुणः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=पृथुः&oldid=150050" इत्यस्माद् प्रतिप्राप्तम्