सामग्री पर जाएँ

पृथुकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथुकः, पुं, (पृथुरेव । पृथु + संज्ञायां कन् । यद्वा, प्रथते इति । प्रथ + “अर्भकपृथुकेति ।” उणा० ५ । ५३ । इति कुकन् संप्रसारणञ्च ।) त्तिपि- टकः । इत्यमरः ॥ क्लीवलिङ्गोऽप्ययम् । यथा, -- “द्विःस्विन्नमन्नं पृथुकं शुद्धं देशविशेषके । नात्यन्तशस्तं विप्राणां भक्षणे च निवेदने ॥ अभक्ष्यञ्च यतीनाञ्च विधवाब्रह्मचारिणाम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे २७ अध्यायः ॥ (यथास्य गुणाः । “पृथुका गुरवो वल्या कफविष्टम्भकारिणः ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ “पृथुका गुरवो भृष्टान् भक्षयेदल्पशस्तु तान् । यावा विष्टभ्य जीर्य्यन्ति सतुषा भिन्नवर्च्चसः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “पृथुका गुरवः स्निग्धा बृंहणा कफवर्द्धनाः । बल्याः सक्षीरभावात्तु वातघ्ना भिन्नवर्च्चसः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ चाक्षुषमन्वन्तरे देवगणभेदः । यथा, हरि- वंशे । ७ । ३२ । “आद्या प्रभूता ऋभवः पृथुकाश्च दिवौकसः ॥”)

पृथुकः, त्रि, (प्रथते इति । प्रथ + “अर्भकपृथुक- पाका वयसि ।” उणा० ५ । ५३ । इति कुकन् सम्प्रसारणञ्च । यद्वा, पृथु यथा स्यात् तथा कायति शब्दायते इति । कै शब्दे + कः ।) बालकः । इति मेदिनी । के, १२६ ॥ (यथा, माघे । ३ । ३० । “प्रक्रीडितान् रेणुभिरेत्य तूर्णं निन्युर्जनन्यः पृथुकान् पथिभ्यः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथुकः [pṛthukḥ] कम् [kam], कम् Rice parched and flattened (Mar. पोहे); याचित्वा चतुरो मुष्टीन् विप्रात् पृथुकतण्डुलान् Bhāg.1.8.14.-कः A child; निन्युर्जनन्यः पृथुकान् पथिभ्यः Śi.3.3; विचित्रं तद् गेहं भवति पृथुकार्तस्वरमयम्; पृथुकः परिशीलितो न युद्धेष्वकृतास्त्रः परकैतवानभिज्ञः Rām. Ch.2.25; Bhāg.1.12.2. -का A girl.

"https://sa.wiktionary.org/w/index.php?title=पृथुकः&oldid=320787" इत्यस्माद् प्रतिप्राप्तम्