सामग्री पर जाएँ

पृथूदकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृथूदकम्, क्ली, (पृथु पुण्यप्रदत्वात् महदुदकं यस्य ।) तीर्थभेदः । यथा, -- “ते श्रुत्वा ऋषयः सर्व्वे तीर्थमाहात्म्यमुत्तमम् । कपालमोचनमिति नाम चक्रुः समागताः ॥ तत्रापि सुमहत्तीर्थं विश्वामित्रस्य विश्रुतम् । ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥ तस्मिंस्तीर्थवरे स्नात्वा ब्राह्मण्यं लभते ध्रुवम् । ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥ ततः पृथूदकं गच्छेन्नियतो नियताशनः । तत्र सिद्धस्तु ब्रह्मर्षी रुषद्गुर्नाम नामतः ॥ जातिस्मरो रुषद्गुस्तु गङ्गाद्बारे तदा स्थितः । अन्तकालं ततो दृष्ट्वा पुत्त्रान् वचनमब्रवीत् ॥ इह श्रेयो न पश्यामि नयध्वं मां पृथूदकम् । विज्ञाय तस्य तद्भावं रुषद्गोस्ते तपोधनाः ॥ तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् । स तैः पुत्त्रैः समानीतः सरस्वत्या समाप्लुतः ॥ स्मृत्वा तीर्थगुणान् सर्व्वान् प्राहेदमृषिसत्तमः । सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् ॥ पृथूदके जप्यपरो नैनं श्वो मरणं लभेत् । तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्म्मिता ॥ पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः । चतुर्व्वर्णस्य सृष्ट्यर्थमात्मज्ञानपरोऽभवत् ॥ तस्याभिध्यायतः सृष्टिं ब्रह्मणोऽव्यक्तजन्मनः । मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्त्रियास्तथा ॥ ऊरुभ्यां वैश्य जातीयाः पद्भ्यां शूद्रास्ततोऽभवन् । चातुर्व्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः ॥ एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीतिसंज्ञितम् । तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति ॥” इति वामनपुराणे ३८ अध्यायः ॥ (यथा च महाभारते । ३ । ८३ । १३२ -- १३९ । “ततो गच्छेत राजेन्द्र ! तीर्थं त्रैलोक्यविश्रुतम् । पृथूदकमिति ख्यातं कार्त्तिकेयस्य वै नृप ! ॥ तत्राभिषेकं कुर्व्वीत पितृदेवार्च्चने रतः । अज्ञानात् ज्ञानतो वापि स्त्रिया वा पुरुषेण वा ॥ यत्किञ्चिदशुभं कर्म्म कृतं मानुषबुद्धिना । तत् सर्व्वं नश्यते तत्र स्नानमात्रस्य भारत ! ॥ अश्वमेधफलञ्चापि लभते स्वर्गमेव च । पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात् सरस्वती ॥ सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् । उत्तमं सर्व्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ॥ पृथूदके जप्यपरो न तस्य मरणं भवेत् । गीतं सनत्कुमारेण व्यासेन च महात्मना ॥ वेदे च नियतं राजन्नधिगच्छेत् पृथूदकम् । पृथूदकात् तीर्थतमं नान्यत्तीर्थं कुरूद्वह ! ॥ तन्मेध्यं तत् पवित्रञ्च पावनञ्च न संशयः । तत्र स्नात्वा दिवं यान्ति येऽपि पापकृता नराः । पृथूदके नरश्रेष्ठ ! एवमाहुर्मनीषिणः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पृथूदकम्&oldid=150072" इत्यस्माद् प्रतिप्राप्तम्