पृश्निः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पृश्निः, त्रि, (स्पृश्यते इति । स्पृश संस्पर्शे + “घृणि- पृश्नीति ।” उणा० ४ । ५२ । इति नि निपातनात् साधुः ।) अल्पतनुः । इत्यमरः । २ । ६ । ४८ ॥ (यथा, महाभारते । १३ । २६ । ८६ । “दक्षां पृश्निं बृहतीं विप्रकृष्टां शिवामृद्धां भगिनीं सुप्रसन्नाम् । विभावरीं सर्व्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥”) खर्व्वदुर्ब्बलाल्पास्थिः । इति भरतः ॥ (शुक्ल- वर्णः । यथा, ऋग्वेदे । १ । १६० । ३ । “धेनुञ्च पृश्निं वृषभं सुरेतसम् ॥” “पृश्निं शुक्लवर्णां धेनुम् ।” इति तद्भाष्ये सायनः ॥ प्राप्ततेजाः । यथा, ऋग्वेदे । १० । १८९ । १ । “आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ॥”)
पृश्निः, स्त्री, (स्पृपति द्रव्यजातं स्पृश्यते इति वा । स्पृश + “घृणिस्पृश्नीति ।” उणा० ४ । ५२ । इति नि निपातनात् साधुः ।) रश्मिः । इति शब्दरत्ना- वली ॥ (अन्नम् । वेदाः । जलम् । अमृतम् । इति महाभारतम् । १२ । ३४१ । ४४ ॥) सुत- पोराजपत्नी । सैव जन्मान्तरे देवकी भूता । इति श्रीभागवते १० स्कन्धः ॥
