सामग्री पर जाएँ

पृषतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृषतः, पुं, (पर्षतीति । पृषि सेके + “पृषिरञ्जिभ्यां कित् ।” उणा० ३ । १११ । इति अतच् । स च कित् ।) विन्दुः । इत्यमरः । १ । १० । ६ ॥ (यथा, रघौ । ३ । ३ । “करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥”) श्वेतविन्दुयुक्तमृगः । इति मेदिनी । ते, १३५ ॥ तत्पर्य्यायः । रङ्कुः २ शवलपृष्ठकः ३ । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये । “हरिणर्ष्यकुरङ्गकरालकृतमाल- शरभश्वदंष्ट्रा पृषतचारुस्करमृगमातृकाप्रभृतयो जङ्घाला मृगाः । कषाया मधुरा लघवो वात- पित्तहरास्तीक्ष्णा हृद्या वस्तिशोधनाश्च ॥” * ॥ द्रुपदराजस्य पिता । यथा, महाभारते । १ । १३१ । १७ । “भरद्वाजसखा चासीत् पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत् सुतः ॥” मण्डलिसर्पान्तर्गतसर्पविशेषः । यथा, -- “आदर्शमण्डलः श्वेतमण्डलो रक्तमण्डलश्चित्र- मण्डलः पृषतो रोध्रपुष्प इत्यादिषु ॥” इति सुश्रुते कल्पस्थाने चतुर्थेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=पृषतः&oldid=150097" इत्यस्माद् प्रतिप्राप्तम्