पृष्ठतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पृष्ठतः, [स्] व्य, (पृष्ठ + “प्रतियोगे पञ्चम्या- स्तसिः ।” ५ । ४ । ४४ । इत्यस्य “आद्यादिभ्य उपासंख्यानम् ।” इति वार्त्तिकोक्त्या तसिः ।) पश्चात् । यथा, भट्टिः । १ । २४ । “तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषु दीप्रास्त्रधरः कुमारः ॥” पृष्ठदेशे । (यथा, मनौ । ८ । ३०० । “पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन । अतोऽन्यथा तु प्रहरन् प्राप्तः स्यात् चौर- किल्विषम् ॥”)
