सामग्री पर जाएँ

पृष्ठम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृष्ठम्, क्ली, (पृष्यते सिच्यते इति । पृष “तिथपृष्ठ- गूथयूथप्रोथाः ।” उणा० २ । १२ । इति थक्- प्रत्ययेन निपातनात् सिद्धम् ।) शरीरपश्चा- द्भागः । इत्यमरः । २ । ६ । ७८ ॥ पीठ इति भाषा ॥ (यथा, मनौ । ४ । ७२ । “न विगर्ह्य कथां कुर्य्याद्बहिर्माल्यं न धारयेत् । गवाञ्च यानं पृष्ठेन सर्व्वथैव विगर्हितम् ॥”) चरममात्रम् । इति मेदिनी । ठे, ७ ॥ (स्तोत्रविशेषः । यथा, शतपथब्राह्मणे । ८ । १ । १ । ५ । “त्रिवृतस्तोमाद्रथन्तरं पृष्ठं निरमिमीत ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पृष्ठम् [pṛṣṭham], [पृष् स्पृश्-वा थक् नि˚; Uṇ.2.12]

The back, hinder part, rear; धर्मः स्तनो$धर्मपथो$स्य पृष्ठः Bhāg.2.1. 32.

The back of an animal; अश्वपृष्ठमारूढः &c.

The surface or upper side; मरुपृष्ठान्युदम्भांसि (चकार) R.4.31;12.67; आसन्नभूपृष्ठमियाय देवः Ku.7.51; so अवनिपृष्ठचारिणीम् U.3.

The back or the other side (of a letter, document &c.); लेख्यस्य पृष्ठे$भिलिखेद्दत्त्वा दत्त्वर्णिको धनम् Y.2.93.

The flat roof of a house.

The page of a book. (पृष्ठेन, पृष्ठे 'behind, from behind').

Remainder (शेष); 'पृष्ठं चरममात्रे स्यात्' इति विश्वः; एष भारतयुद्धस्य पृष्ठं संशयमिष्यति Mb.5.167.11. -Comp. -अनुग, -गामिन्, -यायिन् a. going behind, following; युद्धकाले$ग्रगो यः स्यात् सदा पृष्ठानुगः पुरे Pt.1.59. -अष्ठीलः, -लम् the back of a tortoise; B. R. -अस्थि n. the back-bone.-आक्षेपः acute and violent pain in the back. -उदय a. an epithet of particular signs of the zodiac, i. e. Aries, Taurus, Gemini, Sagittarius and Capricorn. -ग a. mounted, riding on. -गामिन् a. faithful. -गोपः, -रक्षः a soldier who protects the rear of a warrior while he is fighting; पृष्ठगोपांश्च तस्याथ हत्वा परमसायकैः Mb.4.33.39.-ग्रन्थि a. hump-backed. -चक्षुस् m. a crab. -तल्पनम् the exterior muscles on the back of an elephant. -तापः noon, midday.

दृष्टिः a crab.

a bear. -पातिन् a.

following.

watching, observing.

controlling.-पीठी a broad back. -फलम् the superficial contents of a figure. -भङ्गः N. of a mode of fighting; Mb.-भागः the back. -भूमि the upper story of a house.

मांसम् flesh on the back; प्राक् पादयोः पतति खादति पृष्ठमांसम् H.1.81.

a fleshy protuberance on the back.

the remaining flesh (चरममांस); यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् । न भक्षयेत् वृथा मांसं पृष्ठमांसं च वर्जयेत् ॥ Mb.12.193.14. ˚अद, ˚अदन a back-biter, slanderer, calumniator. (-दम्, -दनम्) back-biting; पृष्ठमांसादनं तद्यत् परोक्षे दोषकीर्तनम् Hem.; see पृष्ठमांस above. -यानम् riding.-लग्न a. following. -वंशः the back-bone. -वास्तु n. the upper story of a house; पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये Ms.3.91. -वाह् m., -वाह्यः a draught-ox. -शय a. sleeping on the back. -शृङ्गः a wild goat. -शृङ्गिन् m.

a ram.

a buffalo.

a eunuch.

an epithet of Bhīma.

"https://sa.wiktionary.org/w/index.php?title=पृष्ठम्&oldid=322109" इत्यस्माद् प्रतिप्राप्तम्