सामग्री पर जाएँ

पेचकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पेचकः, पुं, (पचति पच्यते वा । पच + “पचिमच्योरिच्च ।” उणा० ५ । ३७ । इति वुन् । उपधाया अत इच्च ।) पक्षिविशेषः । पे~चा इति भाषा । तत्पर्य्यायः । उलूकः २ वायसारातिः ३ । इत्यमरः । २ । ५ । १५ ॥ शक्राख्यः ४ दिवान्धः ५ वक्रनासिकः ६ हरि- नेत्रः ७ दिवाभीतः ८ नखाशी ९ पीयुः १० घर्घरः ११ काकभीरुः १२ नक्तचारी १३ । इति त्रिकाण्डशेषः ॥ निशाचरः १४ कौशिकः १५ रूपनाशनः १६ पेचः १७ रक्तनासिकः १८ भीरुकः १९ । इति शब्दरत्नावली ॥ करिपुच्छ- मूलोपान्तः । गुदाच्छादकमांसपिण्डविशेषः । इत्यमरः । ३ । ३ । ६ ॥ पर्य्यङ्कः । यूकः । इति विश्वः ॥ मेघः । इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पेचकः [pēcakḥ], 1 An owl; अनेन भिन्नाञ्जनमेचकेन कृत्वाक्षिलेपं खलु पेचकेन Rām. Ch.6.29.

The root of an elephant's tail; Mātaṅga L.3.2;6.1,13.

A couch, bed.

A cloud.

A louse.

A shelter on a street; Mānasāra.

"https://sa.wiktionary.org/w/index.php?title=पेचकः&oldid=322323" इत्यस्माद् प्रतिप्राप्तम्