सामग्री पर जाएँ

पेरोजम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पेरोजम्, क्ली, उपरत्नविशेषः । पीरोजा इति यवन- भाषा । तत्पर्य्यायः । हरिताश्मम् २ पेरजम् ३ । तद्द्विविधम् । भस्माङ्गं हरितञ्च । तस्य गुणाः । “पेरजं सुकषायं स्यान्मधुरं दीपनं परम् । स्थावरं जङ्गमञ्चैव संयोगाच्च यथा विषम् ॥ तत् सर्व्वं नाशयेत् शीघ्रं शूल भूतादिदोषजम् ॥” पाठान्तरं यथा, -- “पिरजं सुकषायं स्यान्मधुरं दीपनं द्वयोः । स्थावरादिविषघ्नं स्याद्धरितञ्चापरं शृणु ॥ शीताङ्गं नाशयेच्छीघ्रं शूलं तिमिरभूतजम् ॥” इति राजनिर्घण्टः ।

"https://sa.wiktionary.org/w/index.php?title=पेरोजम्&oldid=150180" इत्यस्माद् प्रतिप्राप्तम्