सामग्री पर जाएँ

पेलवम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पेलवम्, त्रि, (पेलं कम्पनं वातीति । वा + कः ।) विरलम् । अत्र सावकाशत्वं प्रकारः । इत्यमर- भरतौ ॥ कृशः । इति हेमचन्द्रः । ३ । ११३ ॥ कोमलम् । इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । ५ । ४ । “पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पेलवम्&oldid=150184" इत्यस्माद् प्रतिप्राप्तम्