सामग्री पर जाएँ

पेशलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पेशलः, त्रि, (पिश अवयवे + भावे घञ् । पेशं लातीति । ला + कः । यद्वा, पेशोऽस्यास्तीति । सिध्मादित्वात् लच् ।) चारुः । (यथा, देवी- भागवते । ५ । ९ । ५९ । “महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः । जगाम तरसा कामं गजाश्वरथसंयुतः ॥”) सुन्दरः । (यथा, रघुः । ९ । ४० । “युवतयः कसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥”) दक्षः । चतुरः । कोमलः । इत्यमरभरतौ ॥ (यथा, मुकुन्दमालायाम् । २१ । “इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसन्धि जर्जरम् । किमौषधैः क्लिश्यसि मूढ दुर्म्मते ! निरामयं कृष्णरसायनं पिब ॥”) घूर्त्तः । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=पेशलः&oldid=150187" इत्यस्माद् प्रतिप्राप्तम्