सामग्री पर जाएँ

पैतामहम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पैतामहम्, त्रि, (पितामहस्येदम् । पितामह + “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) पितामह- सम्बन्धिधनादि । यथा, कात्यायनः । “पैतामहञ्च पित्र्यञ्च यच्चान्यत् स्वयमर्ज्जितम् । दायादानां विभागेषु सर्व्वमेतद्विभज्यते ॥” बृहस्पतिः । “पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्ज्जितम् । विद्याशौर्य्यादिना प्राप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥” इति दायभागः ॥

"https://sa.wiktionary.org/w/index.php?title=पैतामहम्&oldid=150214" इत्यस्माद् प्रतिप्राप्तम्