सामग्री पर जाएँ

पैतृकभूमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पैतृकभूमिः, स्त्री, (पैतृकी पितृसम्बन्धिनी भूमिः ।) पितृसम्बन्धिस्थानम् । तस्या माहात्म्यं यथा, -- श्रीभगवानुवाच । “भवांश्च यादवैः सार्द्धं प्रविश द्वारकापुरीम् । मत्पित्रा मातृभिः सार्द्धं माहेन्द्रे च क्षणे नृप ! ॥ उग्रसेन उवाच । वासुदेव न यास्यामि भूमिं तां पैतृकीं पुनः । सर्व्वतीर्थपरां शुद्धां दैवे कर्म्मणि पैतृके ॥ पारक्ये भूमिदेशे च पितॄणां निर्व्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्म्म निहन्यते ॥ पितॄणां निष्फलं श्राद्धं देवानामपि पूजनम् । किञ्चित्फलप्रदञ्चैव सम्पूर्णं पैतृके स्थले ॥ पुत्त्रपौत्त्रकलत्रेभ्यः प्राणेभ्यः प्रेयसी सदा । दुर्ल्लभा पैतृकी भूमिः पितुर्मातुर्गरीयसी ॥ तत् शस्यञ्च पवित्रञ्च दैवे कर्म्मणि पैतृके । क्रीतञ्च तदृते दानं परदत्तमशुद्धकम् ॥ म्रियते पैतृकीभूम्यां तीर्थतुल्यफलं लभेत् । गङ्गाजलसमं पूतं पितृखातोदकं हरे ॥ तत्र स्नात्वा जले पूते गङ्गास्नानफलं लभेत् । पितॄणां तर्पणं तत्र पवित्रं देवपूजनम् ॥ पैतृकी जन्मभूमिश्चेत् फलं तद्द्विगुणं लभेत् । पैतृकीभूमितुल्या च दानभूमिः सतामपि ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अध्यायः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पैतृकभूमि¦ f. (-मिः)
1. Father-land, the country of one's ancestors.
2. A paternal estate. E. पैतृक, भूमि land.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पैतृकभूमि/ पैतृक--भूमि f. the country of one's ancestors

पैतृकभूमि/ पैतृक--भूमि f. a paternal estate W.

"https://sa.wiktionary.org/w/index.php?title=पैतृकभूमि&oldid=323421" इत्यस्माद् प्रतिप्राप्तम्