सामग्री पर जाएँ

पैतृकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पैतृकम्, त्रि, (पितुरागतं पितुरिदं वेति । पितृ + ठञ् ।) पितृसम्बन्धि । इति शब्दमाला ॥ यथा, मनुः । “ऊर्द्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् । भजेरन् पैतृकं रिकथमनीशास्ते हि जीवतोः ॥” मनुविष्णू । “पैतृकन्तु यदा द्रव्यमनवाप्तमवाप्नुयात् । न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्ज्जितम् ॥” पैठीनसिः । “पैतृके विभज्यमाने दायाद्ये समो विभागः ॥” नारदः । “शौर्य्यभार्य्याधने हित्वा यच्च विद्याधनं भवेत् । त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः ॥” इति दायभागः ॥

"https://sa.wiktionary.org/w/index.php?title=पैतृकम्&oldid=150216" इत्यस्माद् प्रतिप्राप्तम्