सामग्री पर जाएँ

पैशाचः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पैशाचः, पुं, (पिशाचस्यायमिति । पिशाच + अण् ।) अष्टप्रकारविवाहान्तर्गताष्टमविवाहः । यथा याज्ञवल्क्यः । “पैशाचः कन्यका छलात् ।” छलमाह मनुः । ३ । ३४ । “सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः ॥” इत्युद्वाहतत्त्वम् ॥ पिशाचसम्बन्धिनि, त्रि ॥ (राजसकायान्तर्गत- कायविशेषः । तल्लक्षणं यथा, -- “उच्छिष्टाहारता तैक्ष्ण्यं साहसप्रियता तथा । स्त्रीलोलुपत्वं नैर्लज्ज्यं पैशाचकायलक्षणम् ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=पैशाचः&oldid=150234" इत्यस्माद् प्रतिप्राप्तम्