सामग्री पर जाएँ

पोगण्डः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पोगण्डः, पुं, (पुनातीति । पू + विच् । पौः शुद्धो गण्डो यस्य ।) दशवर्षीयबालकः । यथा, -- “रोगी वृद्धस्तु पोगण्डः कुर्व्वन्त्यन्यैर्व्रतं सदा ॥” इति प्रायश्चित्ततत्त्वे ब्रह्मपुराणम् ॥

पोगण्डः, त्रि, (पौः गण्ड एकदेशोऽस्य ।) अपो- गण्डः । स्वभावतो न्यूनाधिकाङ्गः । ऊनविंश- त्यङ्गुलीकैकविंशत्यङ्गुलीकादिजनः । यथा । पोगण्डो विकलाङ्गे स्यादिति हलायुधः । पोगण्डो विकलाङ्गकः । इति रत्नकोषः । इत्य- मरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=पोगण्डः&oldid=150243" इत्यस्माद् प्रतिप्राप्तम्