पोष्यपुत्त्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पोष्यपुत्त्रः, पुं, (पोष्यः पुत्त्रः । पोष्यत्वेनैव पुत्त्रत्वं प्राप्त इत्यर्थः ।) पालनादिना सुतत्वप्राप्तः यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे १४ अध्याये । “अधुना कृत्तिकानाञ्च षण्णां तत्पोष्यपुत्त्रकः । तन्नाम चक्रुस्ताः प्रेम्णा कार्त्तिकश्चेति कौतु- कात् ॥” र्दौहित्राधिकारे कॢप्ताधिकारविधिवाधापत्ति- स्तेन दौहित्रपर्य्यन्ताधिकारिशृङ्खलायां तदेक- तमे सत्यपि न दासीपुत्त्रस्य सर्व्वहरत्वं किन्तु तत्समांशः । अतएव । ‘दत्तपुत्त्रे यथा जाते कदाचित्त्वौरसो भवेत् । पितुर्वित्तस्य सर्व्वस्य भवेतां समभागिनौ ॥’ इत्यपि वचनं शूद्रविषय एव योजनीयम् ॥ * ॥ अथान्धपङ्गुप्रभृतिपुत्त्राणां धनानधिकारितया तदौरसक्षेत्रजयोरेव पितामहधनभागित्वश्रुतेर्न तद्गृहीतदत्तकपुत्त्रादेः पितामहधनाधिकारः किन्तु भरणमात्रं अन्धादिभार्य्याणां भरणविधा- नेन तद्भरणस्य दण्डापूपायितत्वात् । तथा अन्ध- पङ्ग्वादीननधिकारिपुत्त्रानभिधायाह । ‘औरसक्षेत्रजास्त्वेषां निर्द्दोषा भागहारिणः । अपुत्त्रयोषितश्चैषां भर्त्तव्याः साधुवृत्तयः ॥ सुताश्चैषां प्रभर्त्तव्या यावन्न भर्त्तृसात् कृताः ॥’ एवं दत्तकग्रहणानन्तरोत्पन्नौरसेन सह दत्त- कस्य विभागदर्शनात् सत्यौरसे गृहीतस्य तु नांशभागित्वमिति । तथा विधानं विना परि- गृहीतस्यापि नांशभागित्वमित्याह । ‘तस्मिन् जाते सुते दत्ते न कृते च विधानके । तत्सुतस्तस्य वित्तस्य यः स्वामी पितुरञ्जसा ॥’ मनुः । ‘अविधाय विधानं यः परिगृह्णाति पुत्त्रकम् । विवाहविधिभाजं तं न कुर्य्याद्धनभाजनम् ॥’ इति । अन्यजातीयदत्तकस्यापि नांशभागित्वमित्याह ‘यदि स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित् । अंशभाजं न तं कुर्य्यात् शौनकस्य मतं हि तत् ॥’ इत्युक्तप्रायमित्यास्तां विस्तारः ॥” इति दत्तक- चन्द्रिका ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पोष्यपुत्त्र¦ m. (-त्त्रः) An adopted son. E. पोष्य and पुत्त्र a son.
