सामग्री पर जाएँ

पोष्यवर्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पोष्यवर्गः, पुं, (पोष्याणां प्रतिपालनीयानां वर्गः ।) प्रतिपालनीयगणः । स तु मात्रादिः । यथा, -- “माता पिता गुरुः पत्नी त्वपत्यानि समाश्रिताः । अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्गा अमी नव ॥” इति काशीखण्डम् ॥ अपि च । “माता पिता गुरुर्भ्राता प्रजा दीनः समाश्रिताः । अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्ग उदाहृतः ॥ भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥” इति गारुडे २१५ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=पोष्यवर्गः&oldid=150301" इत्यस्माद् प्रतिप्राप्तम्