पौंस्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौंस्रम्, क्ली, (पुंस इदम् । पुंस् + “स्त्रीपुंसाभ्यां नञ्स्रञौ भवनात् ।” ४ । १ । ८७ । इति स्रञ् ।) पुंस्त्वम् । इति शब्दमाला ॥ (धैर्य्यम् । यथा, भागवते । ४ । २६ । २६ । “का देवरं वशगतं कुसुमास्त्रवेग- विस्रस्त पौंस्नमुशती न भजेत कृत्ये ॥” त्रि, पुंसु भवः । पुंस आगतः । यथा, भाग- वते । ३ । १५ । ४५ । “पौंस्नं वपुर्द्दर्शयानमनन्यसिद्धै- रौत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥” स्त्रियां ङीप् । पुरुषयोग्या । पुरुषहिता । यथा, भट्टिः । ५ । ९१ । “सङ्गच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे ॥”)
