सामग्री पर जाएँ

पौण्डरीकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पौण्डरीकम्, क्ली, (पुण्डरीकमिव । पुण्डरीक + “शर्करादिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् ।) प्रपौण्डरीकम् । इति राजनिर्घण्टः ॥ (कुष्ठ- विशेषः । यथा, सुश्रुते निदानस्थाने ५ अध्याये । “तत्र वातेनारुणं पित्तेनौडुम्बर्य्यजिह्वकपाल- काकणकानि । श्लेष्मणा पौण्डरीकं दद्रुकुष्ठ- ञ्चेति ॥” पुं, यज्ञविशेषः । यथा, महा- भारते । १३ । १०७ । ३६-३७ । “यस्तु संवत्मरं क्षान्तो भुड्क्ते ऽहन्यष्टमे नरः । देवकार्य्यपरो नित्यं जुह्वानो जातवेदसम् ॥ पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । पद्मवर्णनिभञ्चैव विमानमधिरोहति ॥”)

"https://sa.wiktionary.org/w/index.php?title=पौण्डरीकम्&oldid=150309" इत्यस्माद् प्रतिप्राप्तम्