सामग्री पर जाएँ

पौण्ड्रकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पौण्ड्रकः, पुं, (पौण्ड्र एव । स्वार्थे कन् ।) इक्षु- भेदः । पु~डि आक् इति भाषा । (यथा, -- “पौण्ड्रको भीरुकश्चैव वंशकः शतपोरकः । कातारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ॥ नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् । इत्येता जातयः स्थौल्याद्गुणान् वक्ष्याम्यतः- परम् ॥” इति सुश्रुते सूत्रस्थाने १५ अध्याये ॥) अस्य गुणाः । शीतलत्वम् । वृष्यत्वम् । स्निग्ध- त्वम् । मधुरत्वम् । बृहणत्वञ्च । इति राजवल्लभः ॥ (गुणान्तरमस्य यथा, -- “वातपित्तप्रशमनो मधुरो रसपाकयोः । सुशीतो बृंहणो बल्यः पौण्ड्रको भीरुकस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ पौण्ड्रदेशीयनृपः । यथा, महाभारते । २ । ३४ । १० । “पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा ॥”) जातिविशेषः । पु~डो इति भाषा । स च शौण्डि- कायां वैश्याज्जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ (पौण्ड्रदेशोद्भवक्षत्त्रियविशेषः । स तु क्रियालोपा- दिना शूद्रत्वमापन्नः । यथा, मनुः । १० । ४४ । “पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पौण्ड्रकः [pauṇḍrakḥ], 1 A kind of sugar-cane.

A mixed caste (of sugar-boilers); cf. Ms.1.44.

"https://sa.wiktionary.org/w/index.php?title=पौण्ड्रकः&oldid=324743" इत्यस्माद् प्रतिप्राप्तम्