सामग्री पर जाएँ

पौनर्भवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पौनर्भवः, पुं, (पुनर्भुवोऽपत्यमिति । पुनर्भू + “अनृष्यानन्तर्य्ये विदादिभ्योऽञ् ।” ४ । १ । १०४ । इति अञ् ।) द्वादशविधपुत्त्रान्तर्गत- पुत्त्रविशेषः । इति जटाधरः ॥ पुनर्भूपुत्त्रः । स तु भर्त्तृपरित्यक्तविधवयोरन्येनोत्पादितः । तस्य लक्षणं यथा, -- “वा पत्या वा परित्यक्ता विधवा वा स्वयेच्छया । उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥” इति मानवे । ९ । १७५ ॥ “येति । या भर्त्त्रा परित्यक्ता मृतभर्त्तृका वा स्वेच्छया अन्यस्य पुनर्भार्य्या भूत्वा यमुत्पादयेत् स उत्पादकस्य पौनर्भवः पुत्त्र उच्यते ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ भर्त्तृविशेषः । अक्षतयोन्योर्भर्त्तृपरित्यक्तविधवयोः पौनर्भवेन भर्त्त्रा सह विवाहविधिः एवं कौमारं पति- मुत्सृज्यान्यमाश्रित्यपुनरागतायास्तेन कौमा- रेण भर्त्त्रा सह विवाहविधिर्यथा, -- “सा चेदक्षतयोनिः स्याद्गतप्रत्यागतापि वा । पौनर्भवेन भर्त्त्रा सा पुनः संस्कारमर्हति ॥” इति मानवे । ९ । १७६ ॥ “सा चेदिति । सा स्त्री यद्यक्षतयोनिः सती अन्यमाश्रयेत्तदा तेन पौनर्भवेन भर्त्त्रा पुनर्व्विवा- हाख्यं संस्कारमर्हति । यद्वा कौमारं पतिमुत्- सृज्यान्यमाश्रित्य पुनस्तमेव प्रत्यागता भवति तदा तेन कौमारेण भर्त्त्रा पुनर्व्विवाहाख्यं संस्कारमर्हति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ कन्याविशेषे, स्त्री । सप्तविधपौनर्भवाः कन्या वर्ज्जनीयाः । यथा, -- “सप्त पौनर्भवाः कन्या वर्ज्जनीयाः कुलाधमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उदकस्पर्शिता या च या च पाणिगृहीतिका । अग्निं परिगता या च पुनर्भूप्रभवा च या । इत्येताः काश्यपेनोक्ता दहन्ति कुलमग्निवत् ॥ कृतकौतुकमङ्गला बद्धकङ्कणा । उदकस्पर्शिता उदकपूर्ब्बं दत्तेति रत्नाकरः ।” इत्युद्वाह- तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=पौनर्भवः&oldid=150330" इत्यस्माद् प्रतिप्राप्तम्