सामग्री पर जाएँ

पौरवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पौरवः, पुं, (पुरोरपत्यमिति । पुरु + अण् ।) पुरुवंशः । यथा, -- “द्रुह्योस्तु तनया भोजा अनोस्तु म्नेच्छजातयः । पुरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ! ॥” इति मात्स्ये ३४ अध्यायः ॥ (देशविशेषः । यथा, मार्कण्डेये । ५८ । ५२ । “त्रिनेत्राः पौरवाश्चैव गन्धर्व्वाश्च द्विजोत्तम ! । पूर्ब्बोत्तरन्तु कूर्म्मस्य पादमेते समाश्रिताः ॥” पुरुवंशीये, त्रि ॥ (यथा, शकुन्तलायां प्रथमे अङ्के । “कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यकासु ॥”)

"https://sa.wiktionary.org/w/index.php?title=पौरवः&oldid=150336" इत्यस्माद् प्रतिप्राप्तम्