पौरुषम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौरुषम्, क्ली, (पुरुष + अण् ।) पुरुषस्य भावः । पुरुषस्य कर्म्म । पुरुषस्य तेजः । इति मेदिनी ॥ “क्लीवा हि दैवमेवैकं प्रशंसन्ति न पौरुषम् । दैवं पुरुषकारेण घ्नन्ति शूराः सदोद्यमाः ॥” इत्यग्निपुराणम् ॥ “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥” इति हितोपदेशः ॥
पौरुषम्, त्रि, (पुरुष + अण् ।) ऊर्द्ध्वविस्तृतदोः- पाणिनृमाणम् । पुरुषपरिमाणम् । इत्यमरः । ३ । ३ । २२२ ॥ (पुरुषवाह्यः । यथा, मनुः । ८ । ४०४ । “पणं यानं तरे दाप्यं पौरुषोऽर्द्धपणं तरे ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--see उत्थानम्. M. २२१. 2.
