पौरुषेयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौरुषेयः, पुं, (पुरुष + “सर्व्वपुरुषाभ्यां णढञौ ।” ५ । १ । १० । इत्यत्र “पुरुषाद्वधविकारसमूह- तेन कृतेषु” एष्वर्थेषु ढञ् ।) समूहः । (यथा, माघः । २ । ४ । “एकाकिनोऽपि परितः पौरुषेयवृता इव ॥”) वधः । पुरुषस्य पदान्तरम् । इति मेदिनी ॥
पौरुषेयः, त्रि, (पुरुष + ढञ् ।) पुरुषकृतः । पुरुषविकारः । इति मेदिनी ॥ (पुरुषसम्ब- न्धिनि । यथा, ऋग्वेदे । १० । ८७ । १६ । “यः पौरुषेयेण क्रविषा समंक्ते ॥”)
