पौषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौषः, पुं, (पौषी पौर्णमास्यस्मिन्निति । सास्मिन् पौर्णमासीत्यण् ।) वैशाखादिद्बादशमासान्त- र्गतनवममासः । पुष्यनक्षत्रयुक्ता पौर्णमासी यत्र मासे सः । तत्पर्य्यायः । तैषः २ सहस्यः ३ । इत्यमरः ॥ पौषिकः ४ हैमनः ५ । इति राज- निर्घण्टः ॥ तिष्यः ६ तिष्यकः ७ । इति शब्द- रत्नावली ॥ अयं धनुःस्थरविप्रारब्धशुक्लप्रति- पदादिदर्शान्तरूपो मुख्यचान्द्रः । कृष्णप्रति- पदादिपौर्णमास्यन्तरूपो गौणचान्द्रः । धनू- राशिस्थरविकः सौरः । इति स्मृतिः ॥ * ॥ तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “निगूढमन्त्रः सुकृशाङ्गयष्टिः परोपकारी पितृवित्तहीनः । कष्टान्वितार्थव्ययकृद्विधिज्ञः पौषप्रसूतः पुरुषः सुधीरः ॥”
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौषः [pauṣḥ], N. of a lunar month in which the moon is in the Puṣya asterism (corresponding to DecemberJanuary). -षी The day of full-moon in the month of Pauṣa; पौष्यां तिथौ पुष्यमसूत पत्नी R.18.32. -षम् A festival.
A fight, combat.
