पौष्करम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौष्करम्, क्ली, (पुष्करस्येदमिति । पुष्कर + अण् ।) पुष्करमूलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो गुणाश्च यथा, -- “उक्तं पुष्करमूलन्तु पौष्करं पुष्करञ्च तत् । पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः ॥ पौष्करं कटुकन्तिक्तमुक्तं वातकफज्वरान् । हन्ति शोथारुचिश्वासान् विशेषात् पार्श्वशूल- नुत् ॥” अस्य प्रतिनिधिर्यथा, -- “पौष्कराभावतः कुष्ठम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
