पौष्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौष्यः, पुं, (पूष्णोऽपत्यमिति । पूषन् + ष्यञ् ।) पूषपुत्त्रः । स च करवीरपुरस्य राजा । तस्य पुत्त्रः शिवांशजश्चन्द्रशेखरः । यथा, -- “पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः । स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ॥ ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः । ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच ह ॥ इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा । भोजयेस्ताः स्वजायास्त्रं प्रहृष्टः शुद्धमानसः ॥ ततः फले स्वयं देवः प्रविवेश वृषध्वजः । तत्क्षणात्तत् फलं भूतं त्रिभागं स्वयमेव हि ॥ ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् । तत् फलं नृपशाद्र्दूल ! गर्भाश्चाप्याहिताः शुभाः ॥ सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत । खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ॥ तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य च । एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ॥ तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः । चन्द्रशेखर इत्येवं कान्त्या चन्द्रमसः समः ॥ ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे । दृशद्वतीनदीतीरे राजा भूत्वा मुमोद ह ॥” इति कालिकापुराणे ४६ अध्यायात् सङ्कलितः ॥ (नृपभेदः । स तु गुरुदक्षिणार्थमागताय उत- ङ्काय कुण्डले दत्तवान् । यथा, महाभारते । १ । ३ । ११२ । “तमुतङ्कं पौष्यः प्रत्युवाच भगवंश्चिरेण पात्र- मासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्त्तुं क्रियतां क्षण इति ॥” एतद्बिशेषविवरणन्तु तत्रैव द्रष्टव्यम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौष्य¦ पु॰ करवीरपुराधिपे पूष्णः पुत्रे
१ नृपभेदे तत्कथा
“पुष्णःपुत्रोऽभवत् पौष्यः सर्वशास्त्रार्थपारगः” कालिकापु॰। उतङ्केनर्षिणा गुरुदक्षिणार्थं याचिते तस्मै कुण्डलदातरि
२ नृपभेदे भा॰ आ॰
६ अ॰। तदधिकृत्य कृतो ग्रन्थः अण्। भा॰ आ॰ पर्वान्तर्गते
३ पर्वभेदे न॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पौष्य mfn. relating to the asterism पुष्यMBh.
पौष्य mfn. relating to king पौष्य(629694 ष्यो-पा-ख्यानn. N. of MBh. i , 3 ; See. IW. 371 n. 1 )
पौष्य m. N. of a prince (the son of पूषन्and king of करवीरपुर) MBh.
पौष्य See. under पौष.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Pauṣya : nt.: Name of the 3rd parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 34, 33, 70;
It describes the greatness of Uttaṅka (māhātmyam uttaṅkasyopavarṇitam) 1. 2. 72; related to the adhyāya 1. 3.
_______________________________
*1st word in right half of page p191_mci (+offset) in original book.
Pauṣya : adj.: (of a yoga) related to the nakṣatra Puṣya.
The sage Vyāsa asked first Yudhiṣṭhira to hold the hand (in marriage) of Kṛṣṇā since that was an auspicious day when the moon was going to have the Pauṣya yoga i. e. be in conjunction with Puṣya (adya puṇyāham uta pāṇḍaveya/adya pauṣyaṁ yogam upaiti candramāḥ) 1. 190. 5 (Nī., however, on Bom. Ed. 1. 198. 5: pauṣyaṁ puṣyaty aneneti taṁ na tu puṣyaṁ tasyāvaivāhikatvāt). [See Puṣya ]
_______________________________
*2nd word in left half of page p259_mci (+offset) in original book.
Mahabharata Cultural Index