सामग्री पर जाएँ

पौष्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पौष्यः, पुं, (पूष्णोऽपत्यमिति । पूषन् + ष्यञ् ।) पूषपुत्त्रः । स च करवीरपुरस्य राजा । तस्य पुत्त्रः शिवांशजश्चन्द्रशेखरः । यथा, -- “पूष्णः पुत्त्रोऽभवत् पौष्यः सर्व्वशास्त्रार्थपारगः । स पुत्त्रहीनो राजाभूत् पौष्यो नृपतिसत्तमः ॥ ततः पुत्त्रार्थिनं भूपं प्रसन्नो वृषभध्वजः । ब्रह्मदत्तफलं हस्ते कृत्वेदं तमुवाच ह ॥ इदं फलं ब्रह्मदत्तं विभज्य नृपते ! त्रिधा । भोजयेस्ताः स्वजायास्त्रं प्रहृष्टः शुद्धमानसः ॥ ततः फले स्वयं देवः प्रविवेश वृषध्वजः । तत्क्षणात्तत् फलं भूतं त्रिभागं स्वयमेव हि ॥ ततः समुचिते काले प्राप्ते ताभिस्तु भक्षितम् । तत् फलं नृपशाद्र्दूल ! गर्भाश्चाप्याहिताः शुभाः ॥ सम्पूर्णे गर्भकाले तु गर्भेभ्यः समजायत । खण्डत्रयं पृथक् राजा यथा भर्गेण भाषितम् ॥ तच्च खण्डत्रयं पौष्यो यथास्थानं नियोज्य च । एकं पिण्डं चकाराशु तत्र पुत्त्रो व्यजायत ॥ तस्य नामाकरोद्राजा ब्राह्मणैः स्वैः पुरोहितैः । चन्द्रशेखर इत्येवं कान्त्या चन्द्रमसः समः ॥ ब्रह्मावर्त्ताह्वये रम्ये करवीराह्वये पुरे । दृशद्वतीनदीतीरे राजा भूत्वा मुमोद ह ॥” इति कालिकापुराणे ४६ अध्यायात् सङ्कलितः ॥ (नृपभेदः । स तु गुरुदक्षिणार्थमागताय उत- ङ्काय कुण्डले दत्तवान् । यथा, महाभारते । १ । ३ । ११२ । “तमुतङ्कं पौष्यः प्रत्युवाच भगवंश्चिरेण पात्र- मासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्त्तुं क्रियतां क्षण इति ॥” एतद्बिशेषविवरणन्तु तत्रैव द्रष्टव्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=पौष्यः&oldid=150378" इत्यस्माद् प्रतिप्राप्तम्