सामग्री पर जाएँ

प्रकरणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रकरणम्, क्ली, (प्रक्रियते अस्मिन्निति । प्र + कृ + आधारे ल्युट् ।) प्रस्तावः । (वृत्त्रान्तः । इत्यमरः । ३ । ३ । ६३ ॥ यथा, महाभारते । ३ । २०४ । २१ । “एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर ! । पतिव्रतानां नियतं धर्म्मञ्चावहितः शृणु ॥”) अभिनेयप्रकारः । रूपकभेदः । इति हेमचन्द्रः ॥ ग्रन्थसन्धिः । इति त्रिकाण्डशेषः ॥ पादः । स तु एकार्थावच्छिन्नसूत्रसमूहः । इति मुग्धबोध- टीकायां दुर्गादासः ॥ (नाटकोक्तप्रकरणं तद्भेदादिर्यथा, साहित्यदर्पणे । ६ । २४० -- २४१ । “भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितम् । शृङ्गारोऽङ्गी नायकस्तु विप्रोऽमात्योऽथवा बणिक् ॥ सापायधर्म्मकामार्थपरो धीरप्रशान्तकः ॥ विप्रनायकं यथा मृच्छकटिकम् । अमात्यनायकं मालतीमाधवम् । बणिङ्नायकं पुष्पभूषितम् । नायिका कुलजा क्वापि वेश्या क्वापि द्वयं क्वचित् । तेन भेदास्त्रयस्तस्य तत्र भेदस्तृतीयकः ॥ कितवद्यूतकारादिविटचेटकसङ्कुलः ॥ कुलस्त्री पुष्पभूषिते । वेश्या तु रङ्गदत्ते । द्बे अपि मृच्छकटिके । अस्य नाटकप्रतिकृतित्वात् शेषं नाटकवत् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रकरणम् [prakaraṇam], 1 Treating, explaining, discussing.

(a) A subject, topic, department, a subject (of representation); कतमत् प्रकरणमाश्रित्य Ś.1. (b) A head or subject of treatment. (c) A province or department.

A section, chapter or any smaller division of a work. तस्यायं प्रकरणाधिकरणसमुद्देशः Kau. A.1.1.1.

An opportunity, occasion.

An affair, a matter; अस्मिन्नेव प्रकरणे धनंजयमुदारधीः (उवाच) Mb.12.26.1.

An introduction, prologue; वयमपि प्रकरणमारभामहे Pratijñā 1.

Relation.

Doing much or well.

A species of drama with invented or fictitious plot; as the मृच्छकटिक, मालतीमाधव, पुष्पभूषित &c. The S. D. thus defines it: भवेत् प्रकरणे वृत्तं लौकिकं कविकल्पितं । शृङ्गारो$ङ्गी नायकस्तु विप्रो$मात्यो$थवा वणिक् । सापायधर्मकामार्थपरो धीर- प्रशान्तकः ॥ 511.

Context. This is one of the six प्रमाणs helpful in properly construing a विनियोगविधि. These प्रमाणs and their relative strength is stated by जैमिनि in श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पारदौर्बल्यमर्थविप्र- कर्षात् प्रकरणाच्च ज्योतिष्टोमेनैकवाक्यता स्यात् ŚB. on MS.1. 5.37. -Comp. -समः a kind of sophism; an assertion by two opponents of some argument which has the same force.

"https://sa.wiktionary.org/w/index.php?title=प्रकरणम्&oldid=326602" इत्यस्माद् प्रतिप्राप्तम्