सामग्री पर जाएँ

प्रकीर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

प्रकीर्णः, पुं, (प्रकीर्य्यते दुर्गन्धमनेनेति । प्र + कॄ + क्तः ।) पूतिकरञ्जः । इति राजनिर्घण्टः ॥

प्रकीर्णः, त्रि, (प्रकीर्य्यते स्मेति । प्र + कॄ + क्तः ।) विक्षिप्तः । विस्तृतः । यथा, -- “प्रकीर्णभाण्डामनवेक्ष्यकारिणीं सदैव भर्त्तुः प्रतिकूलवादिनीम् । परस्य वेश्माभिरतामलज्जा- मेवंविधां स्त्रीं परिवर्ज्जयामि ॥” इति लक्ष्मीचरित्रम् ॥ नानाप्रकारमिश्रितः । यथा, -- “प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥” इति वेणीसंहारः ।

"https://sa.wiktionary.org/w/index.php?title=प्रकीर्णः&oldid=150419" इत्यस्माद् प्रतिप्राप्तम्