प्रकीर्णकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रकीर्णकम्, क्ली, (प्रकीर्ण + स्वार्थे कन् ।) चामरम् । इत्यमरः । २ । ८ । ३१ ॥ विस्तारः । इति मेदिनी । के, १९६ ॥ ग्रन्थविच्छेदः । इति हेम- चन्द्रः ॥ पापविशेषः । तथा विष्णुः । यदनुक्तं तत् प्रकीर्णकम् । “प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । प्रायश्चित्तं बुधः कुर्य्यात् ब्राह्मणानुमते सदा ॥” अनुक्तं अनुक्तनिष्कृतिकं पापम् । “अतिपातकाद्यन्यतमत्वेन विशेषतोऽनुक्तकम् ॥” इति प्रायश्चित्तविवेकः ॥
