प्रकीर्त्तितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रकीर्त्तितम्, त्रि, (प्रकीर्त्त्यते स्मेति । प्र + कत् + क्तः ।) कथितम् । यथा, -- “प्रभूतमल्पं कार्य्यं वा यो नरः कर्त्तुमिच्छति । सर्व्वारम्भेण तत् कुर्य्यात् सिंहादेकं प्रकीर्त्तितम् ॥” इति चाणक्यसंग्रहः ॥
