प्रकीर्य्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रकीर्य्यः, पुं, (प्रकीर्य्यते इति । प्र + कॄ + अघ्न्यादि- त्वात् यक् ।) करञ्जभेदः । इत्यमरः ॥ नाटाक- रञ्ज इति भाषा ॥ घृतकरञ्जः । रीठाकरञ्जः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “घृतपूर्णकरञ्जोऽन्यः प्रकीर्य्यः पूतिकोऽपि च । स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
