प्रकृतिधर्म
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
प्रकृतिधर्म¦ पु॰
६ त॰। सांख्यमतसिद्धे प्रकृतिधर्मभेदे स चप्रकृतिशब्दे हेतुमदनित्यादिविपरीतधर्मरूपेण दर्शितः। सुश्रुते तु
“अत ऊर्द्धं प्रकृतिपुरुषयोः साधर्म्य-वधर्ध्ये व्याख्यास्यामः। तद्यथा
“उभावप्यनादी उभा-वप्यनन्तौ उभावप्यलिङ्गौ उभावपि नित्यौ उभावप्यपरौउभौ च सर्वगताविति। एका तु प्रकृतिरचेतना त्रि-गुणा वीजधर्मिणी प्रसवधर्मिण्यमध्यस्थधर्मिणी चेति। वहवस्तु पुरुषाश्चेतनावन्तोऽगुणा अवीजधर्मिण्णोऽप्रसव-धर्मिणो भध्यस्थधर्मिणश्चेति”।
